विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।
सम्प्रति संस्कृतविकिसूक्तौ ४,७८२ पृष्ठानां सङ्ग्रहः विद्यते ।
शुक्रवासरः, नवेम्बर् १५, २०२४; समयः- ०६:५४ UTC
आ नो भद्राः क्रतवो यन्तु विश्वतः ॥ (ऋग्वेदः १-८९-१)
कल्याणकराः विचाराः सर्वतः आगम्यन्ताम् ।
संस्कृतं यूरोपदेशस्य आधुनिकभाषाणां जननी वर्तते ।
किमिच्छति नरः काश्यां ? भूपानां को रणे हितः ? को वन्द्यः सर्वदेवानां ? दीयतामेकमुत्तरम् ॥ मानवः काश्यां किं प्राप्तुम् इच्छति ? राज्ञां युद्धे किं हिताय भवति ? सर्वेषां देवानां वन्द्यः कः ? प्रश्नत्रयस्य अपि एकम् उत्तरं वदतु ।
उत्तरम्
मित्रास्मिन् नगरे महान् कथय कः तालद्रुमाणां गणः को दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि । को दक्षः परवित्तदारहरणे सर्वेऽपि दक्षाः स्वयम् कस्माज्जीवसि हे सखे विषकृमिन्यायेन जीवाम्यहम् ॥ कश्चन यात्रिकः कञ्चित् ग्रामं प्राप्य अपृच्छत् - ‘मित्र ! अस्मिन् ग्रामे महान् कः अस्ति ?’ ग्रामीणः अवदत् - ‘महान्तः अत्र बहवः । तालद्रुमाणां गणः एव अस्ति । तत्रत्याः सर्वे वृक्षाः महान्तः (उन्नताः) एव’ इति । ‘दाता कः अस्ति ?’ - यात्रिकः अपृच्छत् । ‘रजकः । सः प्रातः वस्त्रं नीत्वा सायं ददाति’ इति अवदत् ग्रामीणः । ‘अत्र दक्षः कः ?’ - यात्रिकः अपृच्छत् । ‘अन्येषां धनस्य पत्न्याः च हरणे सर्वे अपि दक्षाः एव’ - इति ग्रामीणः अवदत् । ‘एतादृशे कुत्सिते ग्रामे कथं वासः क्रियते भवता ?’ इति अपृच्छत् यात्रिकः । ‘विषकृमिन्यायेन जीवामि । विषे स्थितः कृमिः आदौ कष्टम् अनुभवति चेदपि गच्छता कालेन अभ्यस्तविषवासः सः तत्रैव सुखेन जीवति । तद्वद् अहम् अपि जीवामि’ इति विषादेन उक्तवान् ग्रामीणः ।
विविधासु भाषासु विकिसूक्तिः उपलभ्यते -
മലയാളം (Malayalam) – தமிழ் (Tamil) – తెలుగు (Telugu) – English – Afrikaans – Albanian – العربية (Arabic) – Հայերեն (Armenian) – Azeri – Basque – Bosnian – Български (Bulgarian) – Catalan – 中ちゅう文ぶん (Chinese) – Croatian – Czech – Danish – Dutch – Esperanto – Estonian – Finnish – French – Galician – ქართულ (Georgian) – German – Ελληνικά (Greek) – עברית (Hebrew) – Hungarian – Icelandic – Indonesian – Italian – 日本語にほんご (Japanese) – 한국어 (Korean) – Kurdish – Limburgian – Lithuanian – Norwegian (Bokmål) – Norwegian (Nynorsk) – فارسی (Persian) – Polish – Portuguese – Romanian – Русский (Russian) – Српски (Serbian) – Slovak – Slovenian – Spanish – Swedish – ไทย (Thai) – Turkish – Українська (Ukrainian) – Vietnamese – Welsh