(Translated by https://www.hiragana.jp/)
मिश्रेयसस्यम् - विकिपीडिया सामग्री पर जाएँ

मिश्रेयसस्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।
मिश्रेयसस्यम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Apiales
कुलम् Apiaceae
वंशः Anethum
L.
जातिः A. graveolens
द्विपदनाम
Anethum graveolens
L.
कारवीसस्यम्

एषा कारवी भारते अपि वर्धमानः कश्चन हरितकविशेषः । इयं कारवी तृणकुलीया । इदम् अपि किञ्चन सस्यम् । अतः कारवी अपि सस्यजन्यः आहारपदार्थः । इयं कारवी आङ्ग्लभाषायां Dill इति उच्यते । अनया कारव्या क्वथितं, सारः, व्यञ्जनं, दोसा, रोटिका, दाधिकम् इत्यादिकं निर्मीयते । एषा कारवी अल्पकालिका बहुवार्षिका च । तन्नाम एतत् कारवीसस्यम् अल्पेन एव कालेन वर्धते, तथैव बहूनि वर्षाणि यावत् जीवति, फलं ददाति इति । एषा कारवी "अनेथन्" इति सस्यजातेः एकमात्रसस्यम् अस्ति । एतत् कारवी सस्यं ४०-५० से.मी. यावत् वर्धते ।

इदं मिश्रेयसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं भारतस्य सर्वेषु अपि प्रदेशेषु वर्धते । सामान्यतया इदं मिश्रेयसस्यं शैत्यकाले वर्धते । इदं सस्यम् औषधत्वेन यथा उपयुज्यते तथैव आहारत्वेन अपि उपयुज्यते । सामान्यतया पाके इदं सस्यं शाकत्वेन (हरितकम्) उपयुज्यते । अस्मिन् अनेथिन्, कार्वाल् इत्याख्यौ अंशौ भवतः । अस्य विशिष्टः कश्चन गन्धः अपि भवति ।

इतरभाषाभिः अस्य मिश्रेयसस्यस्य नामानि

इदं मिश्रेयसस्यम् आङ्ग्लभाषया Anathum Sowa इति उच्यते । हिन्दीभाषया “सोय” इति, तेलुगुभाषया “शटकुषि विट्टलु” इति, तमिळ्भाषायां “शतकुपिमर्” इति, मलयाळाभाषया “चतुकुप्प” इति, कन्नडभाषया “सब्बसिगे” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य मिश्रेयसस्यस्य प्रयोजनानि

अस्य मिश्रेयसस्यस्य रसः तिक्तः कटुः च । इदम् उष्णवीर्ययुक्तं, तीक्ष्णं चापि ।

१. इदं मिश्रेयसस्यं कफं वातं च शमयति ।
२. अस्य बीजानां, मूलस्य वा लेपः कीलवेदनां परिहरति ।
३. उदरसमस्यायां, हिक्कायां च अस्य पर्णानां जलम् उपयुज्यते । अस्य मिश्रेयसस्यस्य पर्णानि सम्यक् जलं संस्थाप्य क्त्वथनीयम् । तदवसरे जायमानं भाष्पं सङ्गृह्य सुधाजलेन सह :३ चमसमितं सेवनीयम् ।
४. उपर्युक्तम् एव औषधम् अतिसारसमये जायमानाम् उदरवेदनाम् अपि शमयति ।
५. अस्य कषायं बालानां बुभुक्षां जीर्णशक्तिं च वर्धयति । अस्य बीजानि ३० गुणिते जले संस्थाप्य क्वथनीयम् । अनन्तरं शोधयित्वा शर्करां योजयित्वा पातव्यम् ।
६. अस्य बीजानि भर्जयित्वा मेथिकायाः बीजैः सह चूर्णीकृत्य सेवनेन अतिसारः अपगच्छति ।
७. अस्य पर्णानाम् उपरि तैलं लेपयित्वा पिष्टपचनस्य उपरि उष्णीकृत्य पिटकानाम् उपरि लेपनेन पिटकाः उद्घाटिताः भवन्ति ।
८. इदं मातॄणां स्तन्यं वर्धयति । अतः प्रसूतवतीनां महिलानां कृते प्रतिदिनं भोजने शाकत्वेन दातुं शक्यते ।
"https://sa.wikipedia.org/w/index.php?title=मिश्रेयसस्यम्&oldid=389579" इत्यस्माद् प्रतिप्राप्तम्