(Translated by https://www.hiragana.jp/)
अजीम प्रेमजी - विकिपीडिया सामग्री पर जाएँ

अजीम प्रेमजी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अजीम हासिम प्रेमजी
स्विट्ज़र्लेण्ड् देशे प्रचालितायां
वैश्विकार्थिकसभायाम् अज़िम प्रेमजी ।
जन्म (१९४५-२-२) २४ १९४५ (आयुः ७९)
मुम्बैप्रान्तः, आङ्ग्लशासनकालिनं
भारतम्
निवासः बेङ्गळूरु, कर्णाटकम्, भारतम्
देशीयता भारतीयः
जातिः कछ्मण्डलम्, गुजरातराज्यम्
शिक्षणस्य स्थितिः

स्ट्यान्फोर्डविश्वविद्यालयः
(सा.श.१९६६तमवर्षे परित्यागः,

सा.श.१९९९तमवर्षे सम्पूर्तिः)
वृत्तिः विप्रो इति तन्त्रांशोत्पदनोद्यमस्य
अध्यक्षः
आहत्य सम्पतिः increase US$15.9 billion (2012)
धर्मः शिया बोरा मुसल्मानः
भार्या(ः) यास्मीन्
अपत्यानि रिशिद्, तनिष्कः च
जालस्थानम् Azim Premji

अजीम प्रेमजी महोदयः ( (/ˈəməpɛmə/)) (हिन्दी: अजीम प्रेमजी, आङ्ग्ल: Azim Premji) (जन्म क्रि.श.१९४५तमस्य वर्षस्य जुलैमासस्य १४ दिनाङ्कः) भारतस्य कश्चन प्रसिद्धः उद्यमपतिः । सः वाणिज्योद्यमी मानवतावादी च । विप्रो इति तन्त्रांशोद्यमसंस्थायाः वर्तमानः अध्यक्षः । गतेभ्यः चत्वारिंशद्ववर्षेभ्यः विप्रोसंस्थायां विविधस्तरेषु अभिवृद्धिदृष्ट्या मार्गदर्शनं कुर्वाणः अयं भारतस्य प्रसिद्धः उद्यमी । फोरस् इति पत्रिकायाः लेखानुसारेण भारतस्य आढ्यतमेषु तृतीयः, जगति आढ्यतमेषु ४१ त्तमः अस्ति अयम् । क्रि.श.२०१२तमवर्षस्य सर्वेक्षणानुगुणं तस्य वैयक्तिकसम्पत्तिः १५.९ बिलियन्-डालर्स परिमितम् । एष्यावीक् इति प्रत्रिकायाः उक्त्यनुसारेण जगति विंशत्याम् अति श्रेष्ठपुरुषेषु एषः अन्यतमः । टैम्स् इति पत्रिकायाः उक्त्यनुसारेण जगतः शते प्रभाविषु पुरुषेषु अयम् अन्यतमः ।

वृत्तिपूर्वजीवनम्

[स्रोतः सम्पाद्यताम्]

अजीम प्रेमजीमहोदयः यावत् विप्रोसंस्थायाम् अध्यक्षपदं स्वीकृतवान् तदा शिशूनां मार्जकम्, शिशूनां शौचर्यम् इत्यादीन् उपयोगकरान् पदार्थान् सर्वोपयोगिवस्तूनि च उत्पादयितुम् आरब्धवान् । प्रेमजीमहोदयः एवमेव वस्तूनाम् उत्पादनं संवर्धयन् मार्जकोत्पादनात् आरभ्य गणकतन्त्रस्य तन्त्रांशस्य च उत्पादनपर्यन्तम् अभिवृद्धिम् अकरोत् । तदनन्तरं प्रेमजीमहोदयस्य आयुर्वेदीयौषधानाम् उत्पादनाय कञ्चित् यन्त्रागारम् आरब्धवान् । कालक्रमेण प्रेमजीमहोदयः नायकत्वे विप्रोसंस्था अत्यन्तम् अभिवृद्धिम् अवाप्नोत् । प्रेमजीमहोदयस्य नेतृत्वे विप्रोसंस्था भिन्नवस्तूनि उत्पाद्य वैविध्यं प्राप्तवती । क्रि.श.१९८० तमे वर्षे विप्रोसंस्था सङ्गणकयन्त्रक्षेत्रं प्राविशत् । तस्मिन्नेव समये विप्रोसंस्थया सङ्गणकयन्त्रसम्बद्धस्य यन्त्रांशस्य तन्त्रांशस्य च सम्बद्धवस्तूनाम् उत्पादनार्थं सेण्टिनल्तः अनुज्ञापत्रं प्राप्तम् । तत्परिणामवशात् प्रेमजीमहोदयः विप्रोसंस्थायाः आयं दशवर्षाभ्यन्तरे १.५ मिलियन् $ तः ६ बिलियन् $ पर्यन्तम् अवर्धयत् । तान्त्रिकवस्तूनाम् उत्पादनेषु तथैव आहारपदार्थस्य उत्पादनेषु विप्रोसंस्था जगति प्रथमं स्थानम् आप्नोत् । अधुना विप्रोसंस्था अत्यन्तं धनाढ्या संस्था इति प्रसिद्धा । ५०० अत्यन्तं ऐश्वर्ययुतसंस्थासु इयमन्यतमा । तथैव अनया विप्रोसंस्थया विद्युत्सामग्रीणाम् उत्पादनम् औषधवितरणस्य उद्यमः च उपाक्रमत ।

उद्यमस्य उत्पन्नानि

[स्रोतः सम्पाद्यताम्]

सन्तूर्, विप्रो शिखाकाय् इति अङ्कितेन मार्जकाणि क्रि.श.१९८६ तमे वर्षे लोकार्पितानि । सन्तूर् सुगन्धद्रव्यं शिशुवस्तूनि च क्रि.श.१९९१ तमे वर्षे विपणिं प्रति आगतानि । सन्तूर् इति मुखमार्जकद्रवः विप्रो सञ्जीविनीति वस्त्रमार्जकः क्रि.श.२००४ तमे वर्षे आरब्धः । सन्तूर् हस्तमार्जकः क्रि.श २००६ तमे वर्षे विपणिमागतः । विप्रो आरोग्यवर्धकं मधुरभक्ष्यं चन्द्रिकाफेनकं च क्रि.श.२००७ तमे वर्षे जनोपयोगाय लब्धम् । सन्तूर् सुगन्धद्रवः क्रि.श.२०१० तमे वर्षे लोकार्पितः। विप्रोसंस्थया उत्पादिताः अन्योत्पन्नाः नाम ग्लुकोविटा क्रि.श.२००३ तमे वर्षे च लोकर्पिता । अजिमप्रेमजीमहोदयस्य नेतृत्वे क्रि.श.१९९१ तमवर्षतः क्रि.श.२००९ वर्षपर्यन्तं विद्युदुपकरणोत्पादनस्य विधानं जि. डि. औषधोत्पादनविधानम् इत्यादिषु क्षेत्रेषु अभिवृद्धिं प्राप्य विप्रोसंस्था सङ्गणकयन्त्रक्षेत्रे अन्तर्जालक्षेत्रे च सक्रिया अभवत् । विप्रोजलम् अर्थात् जलं शुद्धीकृत्य पानजलोद्यमः अपि आरब्धः । तथैव नैसर्गिकशक्तिम् अवलम्ब्य विविधानि वस्तूनि विप्रोसंस्थया उत्पादितानि । अजिम् प्रेमजीमहोदयस्य नायकत्वे विप्रोसंस्था सर्वदृष्ट्या अभिवृद्धिम् आप्नोत् ।

कौटुम्बिकजीवनम्

[स्रोतः सम्पाद्यताम्]

अजिमप्रेमजीमहोदयःवर्यस्य विवाहः यास्मिन् इति नामिकया कन्यया सह अभवत् । दम्पत्योः द्वौ पुत्रौ अभवताम् । एकः रिशादः अन्यः तरिक्यू च । रिशादः विप्रोसंस्थायाम् ऐ.टि. व्यवहारक्षेत्रे मुख्यकार्यनिर्वहणाधिकारी । रिशादः भोहरा इस्मयिल् महम्मदीयपथम् आश्रितवान् ।

प्रशस्तिपुरस्काराः

[स्रोतः सम्पाद्यताम्]

बिसनेस् वीक् इति आङ्ग्लपत्रिकायाम् अजिमप्रेमजीमहोदयः अत्यन्तं परिश्रमी उद्यमपतिः इति प्रशंस्य लेखः प्रकटितः । क्रि.श.२००० तमे वर्षे विप्रोसमवायः अत्यन्तम् अभिवृद्धिशीलसंस्था इति परिगणिता । अतः मणिपालस्य अकादेमी उन्नतशिक्षणसंस्थया प्रेमजीमहोदयःवर्याय गौरवडाक्टरेट्-पुरस्कारः प्रदत्तः । क्रि.श.२००६ तमे वर्षे व्यावहारिकस्वप्नदृष्टा इति प्रशस्तिः राष्ट्रियौद्योगिकतान्त्रिकसंस्थया प्रदत्ता । साहित्यात्मके विचारे सगौरवं डोक्टरेट् पदवीं प्रेमजीमहोदयःवर्याय अलिगारडस्य मुसल्मानविश्वविद्यानिलयः क्रि.श.२००८ तमे वर्षे जून् मासस्य१८ दिने घटिकोत्सवे अयच्छत् । क्रि.श.२००९ तमे वर्षे आसलेयन् विश्वविद्यालयः प्रेमजीमहोदयःवर्यस्य लोकोपकारं स्मरन् सगौरवं डोक्टरेट् पदवीम् अयच्छत् । प्रेमजीमहोदयःवर्यस्य असाधारणवाणिज्योद्यमसामर्थ्यं परिगणय्य भारतसर्वकारः क्रि.श.२००५ तमे वर्षे पद्मभूषणप्रशस्तिं समार्पयत् । क्रि.श.२०११ तमे वर्षे भारतसर्वकारः प्रेमजीमहोदयःवर्याय पद्मविभूषणप्रशस्तिम् अयच्छत् ।

समाजवात्सल्यम्

[स्रोतः सम्पाद्यताम्]

प्रेमजीमहोदयःवर्यः विप्रो इक्विटि ट्रस्ट् इति संस्थां प्रतिष्ठापितवान् । सा तत्रत्योद्योगिनां कृते अत्यन्तं सहर्कारिणी अभवत् । तदेव विप्रोसंस्थायाः अभिवृद्ध्यर्थं कारणम् अभवत् । विप्रोसंस्थायाः उन्नताधिकारिणः निर्णयं कृत्वा अर्होद्योगिनां कृते केनचित् नियमानुसारेण निर्दिष्टं समयम् अवलम्ब्य संस्थायाः स्थिरनिध्यंशः (Share) दत्तवन्तः । तदवलम्ब्य समवायस्य औद्यमिकलाभः अपि भागिभिः विभक्तः। स्थिरनिध्यंशः (Share) तु संस्थायाः नाम्नि तथैव यः क्रीणाति तस्य नाम्नि भवति । इक्विटि रिवार्ड् संस्थायाः नियमानुसारेण उद्योगिनः स्वेच्छया धनं विनिवेशयितुं शक्नुवन्ति । बहुन्यूनवृद्ध्या ऋणमपि लभ्यते, तथैव स्थिरनिध्यंशः (Share) अस्ति । खलु तस्य लाभांशम् अपि प्राप्नोति संस्था । एवमेव उद्योगी यदि मरणं प्राप्नोति अथवा केनापि कारणेन उद्योगभ्रष्टः भवेत् चेदपि तस्य जनस्य बन्धवः स्थिरनिध्यंशस्य (Share) लाभं प्राप्नुवन्ति । व्यक्तिः मृतः भवेत् अथवा अन्यकारणेन ९० दिनेषु सम्बद्धव्यक्तिः स्थिरनिध्यंशंस्य (Share) स्वीकरणार्थम् यत् कार्यम् अस्ति तत् न करोति चेत् संस्था तस्य कृते स्थिरनिध्यंशः (Share) न ददाति । उद्योगी वर्षचतुष्टयपर्यन्तं कार्यम् करोति चेत् स्थिरनिध्यंशः (Share) उद्योगिनां नाम्नि एव भवति ।

विश्वविद्यानिलयारम्भः

[स्रोतः सम्पाद्यताम्]

क्रि.श.२००१ तमे वर्षे अजीमप्रेमजीमहोदयः फौण्डेषन् इति लाभरहितां संस्थाम् आरब्धवान् । इयं संस्था समग्रतया शिक्षाप्रदानस्य स्वस्थसमाजनिर्माणस्य च उद्देशेन प्रतिष्ठापिता । प्राथमिकशिक्षणे सुव्यवस्थितरूपेण नियमान् कृतवान् । अधुना भारतदेशे १.३ मिलियन् सर्वकारीयशालासु स एव नियमः अस्ति । विशेषतः कर्णाटकस्य ग्रामेषु विद्यमानासु शालासु प्रथमकक्ष्यातः सप्तमकक्ष्यापर्यन्तम् अस्ति । क्रि.श.२०१० तमस्य वर्षस्य डिसेम्बर् मासे प्रेमजीमहोदयवर्यः दानरूपेण तथैव दत्तिनिधिरूपेण २ बिलियन् $ धनराशिं सर्वकारीयशालानिर्माणार्थं शैक्षिकाभिवृद्ध्यर्थं विनियोजितवान् । प्रेमजीमहोदयः तद्धनं विप्रो इक्विटिट्रस्ट्तः अजीमप्रेमजीमहोदयःट्रस्ट् तः च दत्तवान् । अजीमप्रेमजीमहोदयः विश्वविद्यानिलयं कर्णाटकलेजिस्लेटिव् असेम्बली द्वारा स्थापितवान् । तत्र उन्नतशिक्षां प्राप्य उद्योगं ये कुर्वन्ति तेषामपि साहाय्यमभवत् । मास्टर् इन् डेवलप्मेण्ट् । मास्टर् इन् एज्युकेशन् । मास्टर् इन् टिचर् एज्युकेशन् इत्याद्याः शिक्षाप्राल्यः सन्ति । शैक्षणिकक्षेत्रे उन्नतशिक्षणम् अत्यन्तं शीघ्रतया प्राप्तव्यम् इति कारणतः प्रेमजीमहोदयःप्रतिष्ठानम् आरब्धम् । भारते विश्वविद्यानिलयस्तरे शैक्षणिकाभिवृद्धिम् उद्दिश्य समग्रचिन्तनं कृत्वा प्रस्तुतशैक्षणिकपद्धतौ आमूलाग्रपरिवर्तनं करणीयम् इति धिया यु.आर्. सी. अस्तित्वं दृश्यते ।

बाह्यानुबन्धाः

[स्रोतः सम्पाद्यताम्]
"https://sa.wikipedia.org/w/index.php?title=अजीम_प्रेमजी&oldid=481396" इत्यस्माद् प्रतिप्राप्तम्