जवाहरलाल नेहरू
जवाहरलाल नेहरु | |
---|---|
Jawaharlal Nehru in 1959 | |
1st Prime Minister of India | |
In office 15 August 1947 – 27 May 1964 | |
Monarch |
George VI (until 26 January 1950) |
President |
Rajendra Prasad Sarvepalli Radhakrishnan |
Governor General |
The Earl Mountbatten of Burma Chakravarti Rajagopalachari (until 26 January 1950) |
Deputy | Vallabhbhai Patel |
Preceded by | Position established |
Succeeded by | Gulzarilal Nanda (Acting) |
Minister of Defence | |
In office 31 October 1962 – 14 November 1962 | |
Preceded by | V. K. Krishna Menon |
Succeeded by | Yashwantrao Chavan |
In office 30 January 1957 – 17 April 1957 | |
Preceded by | Kailash Nath Katju |
Succeeded by | V. K. Krishna Menon |
In office 10 February 1953 – 10 January 1955 | |
Preceded by | N. Gopalaswami Ayyangar |
Succeeded by | Kailash Nath Katju |
Minister of Finance | |
In office 13 February 1958 – 13 March 1958 | |
Preceded by | Tiruvellore Thattai Krishnamachariar |
Succeeded by | Morarji Desai |
In office 24 July 1956 – 30 August 1956 | |
Preceded by | Chintaman Dwarakanath Deshmukh |
Succeeded by | Tiruvellore Thattai Krishnamachariar |
Minister of External Affairs | |
In office 15 August 1947 – 27 May 1964 | |
Preceded by | Position established |
Succeeded by | Gulzarilal Nanda |
व्यैय्यक्तिकसूचना | |
Born |
Prayagraj, North-Western Provinces, British India | १४ १८८९
Died |
२७ १९६४ New Delhi, Delhi, India | (आयुः ७४)
Political party | Indian National Congress |
Spouse(s) | Kamala Kaul |
Children | Indira Gandhi |
Alma mater |
Trinity College, Cambridge Inns of Court |
Profession | Barrister |
Signature | |
Website | जवाहरलाल नेहरू |
जवाहरलाल नेहरुः (१८८९-१९६४) प्रयागे जात: ।
१९४७तः-१९६४तमवर्षपर्यन्तं स: भारतस्य प्रधानमन्त्री आसीत् ।
सः भारतवर्षस्य सर्वाधिककालपर्यन्तं नेतृत्वं कृतवान् तथा च प्रथमः प्रधानमन्त्री आसीत् ।
तस्य पितुः नाम मोतीलालनेहरुः । मातु: नाम स्वरूपरानी इति । केम्ब्रिजविश्वविद्यालये स्नातकपरीक्षाम् उत्तीर्य स: विधिवेत्ता अभवत्। तस्य ब्राह्मणकुलोत्पन्नया कमलया सह विवाह: सम्पन्नः।
प्रारम्भिकजीवनं शैक्षणिकविषयः च
[सम्पादयतु]जवहरलाल् नेहरु महोदयस्य माता स्वरूपराणी पिता च मोतिलाल् नेहरु (१८६१-१९३१) कश्मीरपण्डित कुले जातः । तस्य विद्याभ्यासः भारते इङ्ग्लण्डदेशे च अभवत् । इङ्ग्लण्डदेशे इण्डिपेण्डेण्ट् बोय्स् स्कूल (अननुदानितबालकशालायां) तथा केम्ब्रिडज्प्रदेशे हेरो ट्रिनिटि कलाशालायां च पठितवान् । यदा इङ्ग्लण्डदेशे आसीत् तदा अयं जो नेहरु इति प्रसिद्धः । अयं ७-२-१९१६ दिनाङ्के षोडशवर्षीयां कमलाकौर इत्येतया सह विवाहं कृतवान् । तस्मिन् एव वर्षे तयोः पुत्री जाता तस्याः नाम इन्दिरा प्रियदर्शिनी इति ।
जीवनं तथा वृत्तिः
[सम्पादयतु]भारतदेशस्य स्वातन्त्र्यम् आगस्ट १५ दिनाङ्के १९४७ वर्षे अभवत् । तदा नेहरु ध्वजारोहणम् अकरोत् । प्रजाप्रभुत्वविषये नेहरु गुणत्वम् अपश्यत् इष्टवान् च। सः सेक्यूलरिसं, लिबरलिसं च इष्टवान् । दरिद्रेभ्यः दीनेभ्यः च साहाय्यकरणं तस्य प्रवृत्तिः आसीत् । नेहरुमहोदयस्य एतादृशाः गुणाः अस्माकं देशस्य संविधानरचनायां सहकरिणः अभवन् । देशस्य औन्नत्यर्थं प्रपञ्चे ये हितकारिणः गुणाः आसन् तान् अत्र स्थापितवान् । तस्य पुत्री इन्दिरा तथा दौहित्रः राजीवः स्वयं देशसेवां कर्तुकामौ देशस्य प्रधानमन्त्रिणौ अभवताम् ।
गान्धीमहाभागस्य उत्तराधिकारी
[सम्पादयतु]१९४१ जनवरी १५ दिनाङ्के गान्धी अवदत् । "मम तथा नेहरुवर्यस्य मध्ये भिन्नाभिप्रायाः सन्ति इति जनाः वदन्तः सन्ति । परन्तु आवयोः मध्ये .क्षुल्लककारणेन मनोभेदःन भवेत् आवयोः लक्ष्यं सर्वदा एकमेव भवति । यत् किमपि भवतु ममोत्तरं नेहरु एव अधिकारी भवति, न तु राजाजी इति बहुकालात् वदन् अस्मि" इति।."[५]
राजकीयपूर्वभागः
[सम्पादयतु]नेहरु महाभागः तथा तेन साकं ये कारागृहे आसन् तेषां मोचनम् अभवत् । ब्रिटिश्जनाः राजकीयप्रभुत्वं भारतीयानां कृते ह्स्तान्तरितं कर्तुं निश्चितवन्तः। तदर्थं ब्रिटिश् केबिनेट् मुख्यस्थाः भारतमागताः ।[६] यदा नेहरुमहाभागः प्रधानमन्त्रित्वेन कार्यभारम् ऊढवान् तदा भारते हिन्दूमुस्लिं कलहः तस्य कार्ये प्रत्यूहवत् अभवत् । महमदाली जिन्ना मुस्लिमजनानां कृते स्वतन्त्र्यदेशः आवश्यकः इति आग्रहं कृतवान् । अत एव एताद्दशविघ्नानां मध्ये तस्य कार्यम् अग्रे न गतम् । मुस्लिं जनानां तथा हिन्दूनां सहयोगेन भारते यदा प्रजाप्रभुत्वराज्यं कर्तुं न शक्तः तदा नेहरु भारतस्य विभजनं कर्तुं अनिच्छया अङ्गीकृतवान् । विभागः तु यथा ब्रिटिश्जानानां योजनानुसारम् अभवत् । अयं विभागः तु जून् ३ दिनाङ्के १९४७ वर्षे अभवत् । तदा आग्स्ट १५ दिनाङ्के सः प्रधानमन्त्रिरुपेण प्रमाणवचनं स्वीकृतवान् । तदनन्तरं तस्य प्रथमभाषणं Tryst with Destiny इति प्रसिद्धम् । तस्य भाषणस्य सारांशः एवम् आसीत्- 'अस्माकं लक्ष्यं प्रति गन्तुं सन्धानं कृतम् । इदानीं सन्धानस्य फलप्राप्त्यर्थं समयः आगतः । पूर्णतया कर्तुं न शक्यते चेदपि किञ्चिद् वा कर्तु प्रयतनीयम् । मध्यरात्रे १२ वादने यदा सर्वे सुप्ताः आसन् तदा अस्माकं देशः जागरितः आसीत्। स्वातन्त्र्यं तु प्राप्नोत् । दुर्लभं तादृशं क्षणं सर्वदा न लभ्यते। प्राचीनं सन्त्यज्य अस्माभिः नावीन्यं प्राप्तम् अस्ति। देशस्य चरिते ईद्दशं क्षणं पुनः न आगच्छति । एतावत् पर्यन्तं येषां वाक्, मनः सर्वं निगूढे आसीत् इदानीम् तेषां स्वातन्त्र्यम् आगतम् । अस्मिन् सन्दर्भे भारतस्य तथा भारतीयतायाः च सेवां कर्तुं वयं प्रतिज्ञां कुर्मः मानवतां च न त्यजाम ’ इति। तस्मिन् काले मतान्तरकलहाः बहुत्र वर्धन्ते स्म । अयं कलहः पञ्जाब् देहली बङ्गाल् इत्यत्र सर्वत्र प्रसारितः आसीत् । नेहरु मुस्लिम् नेतृभिः साकं आभारतं सञ्चरन् सर्वत्र देशे शान्तिस्थापनाय तथा शरणार्थिनां मनः प्रसादनार्थं प्रायतत । सः मौलाना आजाद तथा अन्यैः नेतृभिः साकं मुस्लिमबान्धवानां भारते स्थातुं तथा योगक्षेमं वोढुं च वार्तालापं कृतवान् । देशस्थितिं वीक्ष्य तस्य मनोवेदना सञ्जाता।
१९४७ तमे वर्षे -भारत-पाकीस्तानयुद्धं रोद्धुं युनैटेड नेशन्स् साहाय्यं प्रार्थितवान्। पाकिस्तानदेशस्य तथा भारतस्य च मध्ये स्थितं हैदराबाद् इति प्रान्तं भारतस्य इति उद्धोषयितुं नेहरु मनः न चकार। यतः मतीयकलहः भवेदिति। बि.जे.पी नायकः जस्वन्तसिङ्गः एवं वदति " नेहरुमहोदयस्य चिन्तनानि एव अस्माकं भारतस्य विभजने कारणीभूतानि अभवन्। यतः सः एकत्र प्रभुत्वम् इच्छति जिन्ना तु विभागीयप्रभुत्वम् इच्छति। एतयोः मध्ये मनस्तापः एव विभजनस्य अन्यतमं कारणमभवत् । भारतस्वातन्त्र्यानन्तरं नेहरु तस्य पुत्रीम् इन्दिराम् एव तस्य तथा तस्य कार्यकलापस्य पर्यवेक्षिकारूपेण आयोजयामास । तस्य नेतृत्वे १९५२ निर्वाचने काङ्ग्रेस् पक्षः बहुमतं प्राप्नोत्। ततः इन्दिरा नेहरुगृहमेव आगत्य तस्य सर्वाङ्गीणकार्यं पश्यन् तेन साकं स्वदेशविदेशपर्यटनं कृतवती । एषा तस्य कार्यकर्तृषु प्रमुखा अभवत् ।
तेन इतिहासविषये " द डिस्कवरी ऑफ इन्डिआ" अपि च " ग्लिंप्सेस ऑफ वर्ल्ड हिस्टरी" इति अभ्यासपूर्णौ ग्रन्थद्वयं लिखितम् ।
तस्य जन्मदिनं नवेम्बरमासस्य चतुर्दशदिनाङ्कम् अखिले भारतवर्षे बालदिनत्वेन उत्साहपूर्वकम् आचर्यते ।
महात्मनः गान्धे: सम्पर्के आगते स: स्वातन्त्रसङ्ग्रामे सन्नद्घ: अभवत् ।
टिप्पणी
[सम्पादयतु]- ↑ The Spirit of the School – Julian Stern – Google Boeken. Books.google.com. 25 April 2009. आह्रियत 10 July 2013.
- ↑ "Mob Scenes Mar Last Nehru Rites". The Gazette (Montreal: Google News Archive). 9 June 1964. p. 4.
- ↑ Ramachandra Guha (23 September 2003). "Inter-faith Harmony: Where Nehru and Gandhi Meet Times of India". The Times of India.
- ↑ In Jawaharlal Nehru's autobiography, An Autobiography (1936), and in the Last Will & Testament of Jawaharlal Nehru, in Selected Works of Jawaharlal Nehru, 2nd series, vol. 26, p. 612,
- ↑ Gandhi, Gopalkrishna. "The Great Dandi March — eighty years after", The Hindu, 5 April 2010
- ↑ "Declaration of independence". Archived from the original on 17 May 2013. आह्रियत 14 August 2012.
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- India Today's profile of Nehru Archived २०१५-११-०३ at the Wayback Machine
- Nehru's legacy to India Archived २०११-०७-२८ at archive.today
- Nehru on Communalism
- Jawaharlal Nehru materials in the South Asian American Digital Archive (SAADA)
|