पञ्चमहायज्ञाः
अथ ऋणशोधसंकल्पनायां ऋणशोधस्य कालस्तु जीवितावधिः । यदि मरणपर्यन्तं कदापि मनुष्यः यागम् एकम् अपि करोति, प्रौढावस्थायामपि पुत्रमेकं प्राप्नोति, यदि विद्यार्थिदशायामेव स्वाध्यायं सुष्ठुभावेन समाप्नोति, यदा कदा वा दानमपि ददाति, तर्हि चतुर्भ्यः ऋणेभ्यः निष्कृतिः भवति इति स मन्यते । किन्तु अनेन ऋणशोधपरिकल्पनायाः मूलोद्देशः न सिध्यति । देवादीनाम् उपकाराः कृतज्ञतया नित्यं स्मर्तव्याः मनुजैः इत्यासीत् अपेक्षा । किन्तु ऋणे अपाकृते उत्तमर्णाधमर्णयोः सम्बन्धः समाप्तिम् एति । तदनन्तरम् उत्तमर्णस्य स्मरणाय न किमपि कारणमवशिष्यते । अत एव पञ्चमहायज्ञानां विधानम् । पञ्चमहायज्ञानां मूलं तु शतपथब्राह्मणे (९.५.६.१) तथा तैत्तिरीय-आरण्यके (२-१०-१०) उपलभ्यते । तैत्तिरीयारण्यके उक्तम् –
- पञ्च वा एते महायज्ञाः सतति प्रतायन्ते सतति सन्तिष्ठन्ते देवयज्ञः पितृयज्ञो भूतयज्ञो ब्रह्मयज्ञ इति ।
तथा हि-याज्ञवल्क्यस्मृतौ यथा-
- बलिकर्म स्वधाहोम स्वाध्यायातिथिसत्क्रियाः
- भूतपित्रमरब्रह्ममनुष्याणां महायज्ञाः । [ या. स्मृतिः १.१०२ ]
मनुस्मृतौ यथा-
- अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
- होमो दैवो बलिर्भौती नृ यज्ञोऽतिथिपूजनम् ॥ [ मनुस्मृतिः ३-७० ]
यथाशक्ति गृहस्थः पञ्चमहायज्ञानामनुष्ठानं प्रतिनित्यं निर्वहेत् । अनिर्वहने च पञ्चसूना जनित पापभाग्भवति । अतः पञ्चमहायज्ञानुष्ठानेनान्नादि शुद्धिः , पापक्षयं च भवति । एतेभ्यो धर्मार्थकाममोक्षाणां प्राप्तिः सुलभा । एतेषामनुष्ठानं सर्वैः सुकरमस्ति । तस्मादमी 'पञ्चमहायज्ञ' शब्देनाभिधीयन्ते ।
आधुनिकप्रगतमानवः राष्ट्राणां सीमाम् उल्लङ्घ्य अद्य केवलं विश्वमानवस्य कल्पनाचित्रमेव उपस्थापयितुं समर्थः अभूत् इति वयं जानीमः । किन्तु मानवसीमाम् उल्लङ्घ्य समस्तजीवसृष्टिं स्वकल्पनापरिधौ आनयन्तः प्राचीनभारतीयाः कियता प्रमाणेन प्रगता वा न वा इत्येतद् विचारयन्तु विपश्चितः ।