अप्रकाशोऽप्रवृत्तिश्च...
दिखावट
(14.13 अप्रकाशो प्रवृत्तिं….. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
- तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य त्रयोदशः(१३) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अप्रकाशः अप्रवृत्तिः च प्रमादः मोहः एव च तमसि एतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥
अन्वयः
[सम्पादयतु]कुरुनन्दन ! अप्रकाशः अप्रवृत्तिः च प्रमादः मोहः एव च एतानि तमसि विवृद्धे जायन्ते ।
शब्दार्थः
[सम्पादयतु]- कुरुनन्दन = अर्जुन !
- अप्रकाशः = अविवेकः
- अप्रवृत्तिः = प्रवृत्त्यभावः
- प्रमादः = अनवधानम्
- मोहः = मन्दत्वम्
- तमसि = तमोगुणे
- विवृद्धे = प्रवृद्धे
- जायन्ते = भवन्ति ।
अर्थः
[सम्पादयतु]अर्जुन ! पुरुषस्य यदा विवेकभ्रंशः शास्त्रविहितकर्मसु अप्रवृत्तिः, कार्ये अनवधानम्, भ्रान्तिः निद्रा इत्यादयः भवन्ति तदा तमोगुणः वृद्धिं गतः इति ज्ञातव्यम् ।